अयतौ परतः उपसर्गस्य यो रेफः तस्य लकारः आदेशो भवति। प्लायते। पलायते। अत्र च यो ऽयम् एकादेशः, तस्य स्थानिवद्भावादयतेः उपसर्गस्य च विभागे सति, यदि अयतिग्रहणं रेफस्य विशेषणम्, तदा येन न अव्यवधानं तेन व्यवहिते ऽपि वचनप्रामाण्यातिति एकेन वर्णेन व्यवधाने ऽपि लत्वं भवति। तथा च पल्ययते इत्यत्र अपि भवति। उपसर्गविशेषणे तु अयतिग्रहणे सिद्धम् एव एतत् सर्वम्, प्रतेरपि तु व्यवहिते ऽपि प्राप्नोति। तत्र केषांचिद् दर्शनं भवितव्यम् एव प्लत्ययते इति। प्रथमपक्षदर्शनाभिनिष्टास्तु प्रत्ययते इत्येव भवति इति मन्यन्ते। अपरे तु प्रतिशब्दोपसृष्टस्य अयतेः प्रयोगम् एव न इच्छन्ति। निस् दुसित्येतयोस् तु रुत्वस्य असिद्धत्वाल् लत्वेन न एव भवितब्यम्। निरयणम्। दुरयणम्।
इह द्वौ पक्षौ सम्भवतः--अयतिग्रहणं रेफविशेषणमित्येकः पक्षः, उपसर्गस्य विशेषणमिति द्वितीयः। तत्राद्ये पक्षेऽयतौ परत इत्येवामादिको वृत्तिग्रन्थ एवं नेयः--अयतौ परतो यो रेफ उपसर्गस्थस्तस्य लकारादेशो भवतीति। द्वितीये ह्रेवं नेयः--अयतौ परतो म उपसर्गस्तस्योपसर्गस्य यो रेफस्तस्य लकारादेशो भवतीति। "प्लायते" पलायते" इति। "अय ण्य" इत्यस्मादनुदात्तेत्त्वादात्मनेपदम्()। कथमत्राद्ये पक्षे लत्वं भवति,
यावता तस्मिन्? कत्र्तव्ये "अचः परस्मिन्? पूर्वविधौ"
१।१।५६ इति स्थानिवद्भावेन भवितव्यम्(),
ततश्च प्रकृत्युपसर्गयोर्निमागे सत्यवर्णेन व्यवधानद्रेफस्यायतिपरता न सम्भवति? इत्याह--"अत्र योऽयम्()" इत्यादि। विभागे विश्लेष इत्यर्थः। एकग्रहणं प्रत्यय इत्यत्र सङ्घाते व्यवधाने लत्वं न भवतीति प्रदर्शनार्थम्()। येन हि व्यवधानमेव नाव्यवधानं तेन व्यवधाने वचनाप्रामाण्याल्लत्वेन भवितव्यम्()।
केन व्यवधानमेवम्()? एकेन वर्णेन। सङ्घातेन पुनव्र्यवधानमस्ति नास्ति चेति, तेन व्यवधाने भवति। "तथा च" इत्यादि। एवमाद्ये पक्ष एकेन वर्णेन व्यवधाने लत्वं भवति। न केवल पल्ययत इत्यत्र प्रवत्र्तते यत्र स्यानिवद्भावद्वारेणाशास्त्रीयं व्यवधानम्(); यत्रापि तु श्रूयमाणेनैव वर्णेन लौकिकं व्यवधानम्(), तत्रापि प्रवर्त्त्त इत्येषोऽपिशब्दस्यार्थः।
ननु च निरः कुषः"
७।२।४६ इत्यत्र निर इति निर्देशेन ज्ञापितमेतत्()--निरिति रेफान्तमुपसर्गान्तर मस्तीति, ततश्च निलय इत्यत्र वचनस्यावकाशे सति कथं "येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्()" (व्या।पा।
४६) इत्युक्तम्()? एवं मन्यते--नैकमुदाहरणं सामान्यलक्षणं सामान्यलक्षणं प्रयोजयति,
यदि ह्रेतावत्? प्रयोजनं स्यात्(), निर एव ग्रहणं कुर्यादिति। एवं प्रथमे पक्षे सर्वस्य सिद्धतां प्रतिपाद्य द्वितीये पक्षे प्रतिपादयितुमाह--"उपसर्गविशेषणे तु" इत्यादि। तुशब्दोऽयमपिशब्दस्यार्थे वत्र्तते। न केवलं रेफविशेषणेऽयतिग्रहणे पल्ययत इत्यादि सर्वं सिद्धम्(),
अपि तूपसर्गविशेषणेऽपि तस्मिन्? सर्वमेतत्? सिद्धम्()। अथ वा--तुशब्दः पूर्वस्मात्पक्षादस्य विशेषं द्योतयति। तत्र हि वयवधानाल्लत्वं प्राप्नोतीत्येतच्चोद्यमवतरति।
अतो यदेतत्? प्रतिपाद्यमेतत्? सर्वम्()। इह त्वस्य चोद्यस्यावतार एव नास्तीति सिद्धमेवैतत्(), न यत्नसाध्यमित्यर्थः। प्रतेरपि प्राप्नोतीति चोदकः। तुशब्दः पूर्वस्माद्विशेषणार्थः, पूर्वत्र प्रतेर्न प्राप्नोति; सङ्घातेन व्यवधानात्(); इह तु नास्ति केनचिद्व्यवधानम्(), अतः प्रतेरपि प्राप्नोतीति मन्यन्ते। "अपरे" इति। द्वितीयपक्षाभिनिविष्टानामम्यतमे। "निस्दुसित्येतयोः" इति। यद्ययतिग्रहणं रेफस्य विशेषणम्(), अथाप्युपसर्गस्य विशेषणम्(),
सर्वथाः रत्वे कृते लत्वं प्राप्नोति? इति यश्चोदयेत्(), तं प्रत्याह--"निस्दुस्()" इत्यादि। गतार्थम्()॥